53
विघ्नं गुरू न कुरुतो यदि मत्कराग्र- निर्भिद्यमानरणितास्थनि ते शरीरे ॥382

अन्यच्च मूढ—

शोकं स्त्रीवन्नयनसलिलैर्यत् परित्याजितोऽसि भ्रातुर्वक्षःस्थलविदलने यच्च साक्षीकृतोऽसि ।
आसीदेतत् तव कुनृपतेः कारणं जीवितस्य क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥383
राजा

दुरात्मन् भरतकुलापसद पाण्डवपशो, नाहं भवानिव विकत्थनाप्रगल्भः ।

किंतु—

द्रक्ष्यन्ति न चिरात् सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥384
इत्यादिना संरब्धयोर्भीमदुर्योधनयोः स्वस्वशक्त्युक्तिर्विरोधनमिति ।

अथ प्ररोचना—

सिद्धामन्त्रणतो भाविदर्शिका स्यात् प्ररोचना ॥ ४७ ॥

यथा वेणीसंहारे—

पाञ्चालकः

अहं च देवेन चक्रपाणिना385

इत्युपक्रम्य

कृतं संदेहेन—

पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् ।
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि- क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥386

  1. वे॰ सं॰ ५।३२
  2. वे॰ सं॰ ५।३३
  3. वे॰ सं॰ ५।३४
  4. पृ॰ १६५
  5. वे॰ सं॰ ६।१२