56 सकलशरीरो दुर्लक्षव्यक्तिः ।397

इत्यादिना द्रौपदीकेशसंयमनादीनां मुखसंध्यादिबीजानां निजनिजस्थानोपक्षिप्तानामेकार्थतया योजनम् ।

यथा च रत्नावल्यां सागरिकारत्नावलीवसुभूतिबाभ्रव्यादीनामर्थानां मुखसंध्यादिषु प्रकीर्णानां वत्सराजैककार्यार्थत्वम्—

वसुभूतिः
सागरिकां निर्वर्ण्यापवार्य

बाभ्रव्य, सुसदृशीयं राजपुत्र्या ।398

इत्यादिना दर्शितमिति निर्वहणसंधिः ।

अथ तदङ्गानि—

संधिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ॥ ४९ ॥
प्रसादानन्दसमयाः कृतिर्भाषोपगूहने ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ५० ॥

यथोद्देशं लक्षणमाह—

संधिर्बीजोपगमनं

यथा रत्नावल्याम्—

वसुभूतिः

बाभ्रव्य, सुसदृशीयं राजपुत्र्या ।

बाभ्रव्यः

ममाप्येवमेव प्रतिभाति ।399

इत्यनेन नायिकानुरागबीजोपगमात् संधिरित ।

यथा च वेणीसंहारे—

भीमः

भवति यज्ञवेदिसंभवे, स्मरति भवती यत् तन्मयोक्तम्—400

चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावबद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥401
इत्यनेन मुखोपक्षिप्तस्य बीजस्य पुनरुपगमात् संधिरिति ।

  1. पृ॰ १७९
  2. पृ॰ १७८
  3. पृ॰ १७८
  4. पृ॰ २०१
  5. वे॰ सं॰ १।२१