57 अथ विबोधः402

विबोधः कार्यमार्गणम् ।

यथा रत्नावल्याम्—

वसुभूतिः
निरूप्य

देव, कुत इयं कन्यका ?

राजा

देवी जानाति ।

वासवदत्ता

403अज्जउत्त, एसा सागरादो पाविअत्ति भणिअ अमच्चजोगंधराअणेण मम हत्थे निहिदा । अदो ज्जेव सागरिअत्ति सद्दावीअदि ।

राजा
आत्मगतम्

यौगंधरायणेन न्यस्ता । कथमसौ ममानिवेद्य करिष्यति ।404

इत्यनेन रत्नावलीलक्षणकार्यान्वेषणाद् विबोधः ।

यथा च वेणीसंहारे—

भीमः

मुञ्चतु मुञ्चतु मामार्यः क्षणमेकम् ।

युधिष्ठिरः

किमपरमवशिष्टम् ?

भीमः

सुमहदवशिष्टम् । संयमयामि तावदनेन दुःशासनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।

युधिष्ठिरः

गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारम् ।405

इत्यनेन केशसंयमनकार्यस्यान्वेषणाद् विबोध इति ।

अथ ग्रथनम्—

ग्रथनं तदुपक्षेपो

यथा रत्नावल्याम्—

यौगंधरायणः

देव, क्षग्यतां यद्देवस्यानिवेद्य मयैतत् कृतम् ।406

इत्यनेन वत्सराजस्य रत्नावलीप्रापणकार्योपक्षेपाद् ग्रथनम् ।

यथा च वेणीसंहारे—

भीमः

पाञ्चालि, न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिना । तिष्ठतु । स्वयमेवाहं संहरामि ।407

इत्यनेन द्रौपदीकेशसंयमनकार्यस्योपक्षेपाद् ग्रथनम् ।

  1. A.T.A. and Bahurūpamiśra read virodhaḥ in the place of vibodhaḥ, all through.

  2. ‘आर्यपुत्र, एषा सागरात् प्राप्तेति भणित्वामात्ययौगंधरायणेन मम हस्ते निहिता, अत एव सागरिकेति शब्द्यते ।’ इति च्छाया.

  3. पृ॰ १७९
  4. पृ॰ २००
  5. पृ॰ १८३
  6. पृ॰ १९६