7 शब्दाः खलूपाधिप्रयुक्ताः । उपाधयश्चावस्थाः । एकस्यैव हि धीरोदात्तत्वधीरोद्धतत्वधीरललितत्वधीरशान्तत्वानि भवन्ति । अतस्ता अवस्था एव तत्प्रवृत्त्युपाधय इति ।

रूपं दृश्र्यतयोच्यते ।

तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् ।

तदेवेति । तदेव नाट्यं रूपमित्युच्यते । यथा नीलादिरूपस्य दृश्यत्वगुणयोगः एवमिदमपि दृश्यत्वगुणयोगाद् रूपमित्युच्यते । यथा माणवके ज्वलनशब्दो66 गौणः एवं 67नाट्यस्थो रूपशब्दोऽपि गौण इत्यर्थः ।

रुपकं तत्समारोपाद्

नटे रामाद्यवस्थारोपेण वर्तमानत्वाद् रूपकम् । मुखचन्द्रादिवदित्येकस्मिन्नर्थे प्रवर्तमानस्य शब्दत्रयस्य इन्द्रः पुरंदरः शक्रः इतिवत् प्रवृत्तिनिमित्तभेदो दर्शितः ।

नट इति । यथा मुखे चन्द्रत्वसमारोपात् मुखं चन्द्रः, एवं नटे रामाद्यवस्थारोपात् नटोऽपि रामादिः । मुखचन्द्रादिवदिति । मुखचन्द्रत्वादिवदित्यर्थः । ननु नाट्यरूपरूपकशब्दा यदि भिन्नार्थाः तर्हि 68एकवव्द्यवहारो न स्यात् । अस्ति च सः नाट्यानां लक्षणं संक्षिपामीति, दशरूपानुकारेणेति, आनन्दनिष्यान्दिषु रूपकेष्विति च । अथैकार्थाः, तदा सामानाधिकरण्यं न स्यात् । न हि घटो घट इति सामानाधिकरण्यम् । तत्राह एकस्मिन्निति । 69पर्यवसानस्यैकत्वादेषामेकार्थत्वेन व्यवहारः । प्रवृत्तिनिमित्तभेदाच्च सामानाधिकरण्यम् । यथा परमैश्वर्यं शक्तत्वं विक्रमत्वं चोपाधीकृत्य एकस्मिन्नर्थे प्रवर्तमानस्य इन्द्रादिशब्दत्रयस्य एकार्थत्वं सामानाधिकरण्यं च एवमिहापीति ।

दशधैव रसाश्रयम् ॥ ७ ॥

रसानाश्रित्य प्रवर्तमानं दशप्रकारकम् । एवेत्यवधारणं तु70 शुद्धाभिप्रायेण, नाटिकायाः संकीर्णत्वेन वक्ष्यमाणत्वात् ।

  1. M.G.T. reads analaśabdaḥ.

  2. M.G.T. reads evaṃ nāṭyārtho rūpaśabdo gauṇa ity arthaḥ.

  3. This is the reading in Tri.MS. M.G.T. reads tarhi eka eva vyavahāro. Gr. MS. reads tarhi aikyavyavahāro na syāt. asti ca saṃprati. T.MS. gives as tasyaikavyavahāro na syāt.

  4. Gr.MS. and T.MS. read paryavasānasthānasya.

  5. tu is given by Bh. Nr., but missing in N.S.P.