58 अथ निर्णयः—

ऽनुभूताख्या तु निर्णयः ॥ ५१ ॥

यथा रत्नावल्याम्—

यौगंधरायणः
कृताञ्जलिः

देव, श्रूयताम् । इयं सिंहलेश्वरदुहिता सिद्धादेशेनोपदिष्टा, योऽस्याः पाणिं ग्रहीष्यति स सार्वभौमो राजा भविष्यतीति । तत्प्रत्ययादस्माभिः स्वाम्यर्थे बहुशः प्रार्थ्यमानापि सिंहलेश्वरेण देव्या वासवदत्तायाश्चित्तखेदं परिहरता यदा न दत्ता, तदा लावाणिके देवी दग्धेति प्रसिद्धिमुत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः ।408

इत्यनेन यौगंधरायणः स्वानुभूतमर्थं ख्यापितवानिति निर्णयः ।

यथा च वेणीसंहारे—

भीमः

देव देव अजातशत्रो, क्वाद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः—409

भूमौ क्षिप्त्वा शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे लक्ष्मीरार्ये निषक्ता चतुरुदधिपयः सीमया सार्धमुर्व्या ।
भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ नामैकं यद् ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ॥410
इत्यनेन स्वानुभूतार्थकथनान्निर्णय इति ।

अथ परिभाषणम्—

परिभाषा मिथो जल्पः

यथा रत्नावल्याम्—

रत्नावली
आत्मगतम्

411कआवराहा देवीए ण सक्कुणोमि मुहं दंसिदुं ।

वासवदत्ता
सास्रम् । पुनर्बाहू

  1. पृ॰ १८३
  2. पृ॰ १९८
  3. वे॰ सं॰ ६।३९
  4. ‘कृतापराधा देव्या न शक्नोमि मुखं दर्शयितुम् ।’ इति च्छाया.