60 यथा च वेणीसंहारे—

द्रौपदी

420णाध, विसुमरिदम्हि एदं वावारं । णाधस्स पसादेण पुणो सिक्खित्सं ।

केशान् बध्नाति
421
इत्याभ्यां प्रार्थितरत्नावलीकेशसंयमनयोर्वत्सराजद्रौपदीभ्यां प्राप्तत्वादानन्दः ।

अथ समयः—

समयो दुःखनिर्गमः ॥ ५२ ॥

यथा रत्नावल्याम्—

वासवदत्ता
रत्नावलीमालिङ्ग्य

422समस्सस समस्सस बहिणिए ।423

इत्यनेन भगिन्योरन्योन्यसमागमेन दुःखनिर्गमात् समयः ।

यथा च वेणीसंहारे—

भगवन्, कुतस्तस्य विजयादन्यद् यस्य भगवान् पुराणपुरुषः स्वयमेव नारायणो मङ्गलान्याशास्ते ।424

कृतगुरुमहदादिक्षोभसंभूतमूर्तिं गुणिनमुदयनाशस्थानहेतुं प्रजानाम् ।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां भवति जगति दुःखी किं पुनर्देव दृष्ट्वा ॥425
इत्यनेन युधिष्ठिरदुःखापगमं दर्शयति ।

अथ कृतिः—

कृतिर्लब्धार्थशमनं
  1. ‘नाथ, विस्मृतास्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनः शिक्षिष्ये ।’ इति च्छाया.

  2. पृ॰ २०२
  3. ‘समाश्वसिहि समाश्वसिहि भगिनिके ।’ इति च्छाया.

  4. पृ॰ १८०
  5. पृ॰ २०३
  6. वे॰ सं॰ ६।४३