61

यथा रत्नावल्याम्—

राजा

को देव्याः प्रसादं न बहु मन्यते ।

वासवदत्ता

426अज्जउत्त, दूरे से मादुउलं । ता तधा करेसु जधा वंधुअणं न सुमरेदि ।427

इत्यन्योन्यवचसा 428लब्धाया रत्नावल्या राज्ञः सुश्लिष्टये उपशमनात् कृतिरिति ।

यथा च 429वेणीसंहारे—

कृष्णः

एते खलु भगवन्तो व्यासवाल्मीकि—430

इत्यादिना अभिषेकमारब्धवन्तस्तिष्ठन्ति । इत्यनेन प्राप्तराज्यस्याभिषेकमङ्गलैः स्थिरीकरणं कृतिः ।

अथ भाषणम्—

मानाद्याप्तिश्च भाषणम् ।

यथा रत्नावल्याम्—

राजा

किमतःपरमपि प्रियमस्ति ।431

432यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम् ॥433
इत्यनेन कामार्थमानादिलाभाद् भाषणमिति ।

अथ पूर्वभावोपगूहने—

कार्यदृष्टयद्भुतप्राप्ती पूर्वभावोपगूहने ॥ ५३ ॥
  1. ‘आर्यपुत्र, दूरेऽस्या मातृकुलम् । तत् तथा कुरुष्व यथा बन्धुजनं न स्मरति ।’ इति च्छाया.

  2. पृ॰ १८६
  3. N.S.P. labdhāyāṃ ratnāvalyāṃ.

  4. The reference in this context is not clear.

  5. पृ॰ २०४
  6. पृ॰ १८७
  7. ‘नीतः’ इति पाठः

  8. रत्ना॰ ४।२०