8 बहुत्वाद्रसानां बहुवचनेन विगृह्णाति रसानाश्रित्येति । ननु न्यूनाधिकसंख्याव्यवच्छेदफलेन संख्यानेनैव दशेति सिद्धे किमवधारणेन । तत्राह अवधारणं त्विति । शुद्धिर्नाम लक्षणासांकर्यम् । नाटिका हि नाटकप्रकरणलक्षणसंकरादेवोपपद्यत इति ।

तानेव दशभेदानुद्दिशति—

नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ॥ ८ ॥

ननु71

डोम्बी श्रीगदितं भाणो भाणीप्रस्थानरासकाः ।
काव्यं च सप्त नृत्यस्य भेदाः स्युस्तेऽपि भाणवत् ॥
इत्यादिना72 रूपकान्तराणामपि भावादवधारणानुपपत्तिरित्याशङ्कयाह—

अन्यद् भावाश्रयं नृत्यं

रसाश्रयान्नाट्याद् भावाश्रयं नृत्यमन्यदेव । तत्र भावाश्रयमिति विषयभेदान्नृत्यमिति73 नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात् तत्कारिषु च नर्तकव्यपदेशाल्लोकेऽपि च74 रङ्गे प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेदत्वाच्छ्रीगदितादेर्नावधारणानुपपत्तिः75 । नाटकादि च रसविषयम् । रसस्य च पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थरूपत्वाद्76 वाक्यार्थाभिनयात्मकत्वं रसाश्रयमित्यनेन दर्शितम् । नाट्यमिति च नट अवस्पन्दने इति नटेः किंचिच्चलनार्थत्वात् सात्त्विकबाहुल्यम् । अत एव तत्कारिषु नटव्यपदेशः । लोकेऽपि च रङ्गे नाट्यमिति व्यपदेशः । एतदुक्तं भवति77 यथा च गात्र

  1. nanu ca is lemma in Laghuṭīkā, but N.S.P. has only nanu.

  2. N.S.P. iti rūpakāntarāṇām, etc.

  3. A.T.A. nṛtyam iti ca nṛter, etc.

  4. N.S.P. (loke ’pi) cātra.

  5. N.S.P. avadhāraṇopapattiḥ.

  6. N.S.P. -vākyārthahetukatvād, etc. vākyārtharūpatvād is the correct reading, and not … hetukatvād as in the N.S.P. or … hetutvād as quoted in Bhoja’s Śṛṅgāra Prakāśa (1963), page 537.

  7. This is in the light of the explanation by Bh. Nṛ.