63 अथ प्रशस्तिः—

प्रशस्तिः शुभशंसनम् ।

यथा वेणीसंहारे—

प्रीततरश्चेद् भवान्, तदिदमेवमस्तु—441

442अकृपणमतिः कामं जीव्याज्जनः पुरुषायुषं भवतु भगवन् भक्तिर्द्वैतं विना पुरुषोत्तमे ।
कलितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवित् सततसुकृती भूयाद् भूपः प्रसाधितमण्डलः ॥443
इति शुभशंसनात् प्रशस्तिः ।

इत्येतानि चतुर्दश निर्वहणाङ्गानि । एवं चतुःषष्ट्यङ्गसमन्धिताः पञ्चसंधयः प्रतिपादिताः ।

षट्प्रकारं चाङ्गानां प्रयोजनमित्याह—

उक्ताङ्गानां चतुःषष्टिः षोढा चैषां प्रयोजनम् ॥ ५४ ॥

कानि पुनस्तानि षट् प्रयोजनानि—

इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम् ।
रागः प्रयोगस्याश्चर्यं वृत्तान्तस्यानुपक्षयः ॥ ५५ ॥

विवक्षितार्थनिबन्धनं गोप्यार्थगोपनं प्रकाश्यार्थप्रकाशनमभिनयरागवृद्धिश्चमत्कारित्वं444 च काव्यस्येतिवृत्तस्य विस्तर इत्यङ्गैः षट् प्रयोजनानि संपाद्यन्त इति ।

  1. पृ॰ २०६
  2. ‘अकृपणमरुक्‏श्रान्तं जीव्यात्’ इति पाठः.

  3. वे॰ सं॰ ६।४६
  4. N.S.P. abhineyarāga, etc.