64

नन्वङ्गिनि सति तेनैवालम् । किमङ्गैः । तत्राह इष्टस्येति । विवृणोति विवक्षितार्थेति । अङ्गिना एकेनैव बहूनि परस्परविरुद्धानि च प्रयोजनानि संपादयितुं न शक्यन्ते । तस्माद् बहूनामेव तदङ्गानां बहुविधप्रयोजनसंपादकत्वात् सप्रयोजनत्वमिति । अभिनयरागवृद्धिरिति । अभिनयदर्शनेन सामाजिकानां कुतूहलवृद्धिरित्यर्थः । आश्चर्यमित्यस्य विवरणं काव्यस्य चमत्कारित्वमिति ।

पुनर्वस्तुविभागमाह—

द्वेधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः ।
सूच्यमेव भवेत् किंचिद् दृश्यश्राव्यमथापरम् ॥ ५६ ॥

कीदृक् सूच्यं, कीदृग् दृश्यश्राव्यमित्याह—

नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः ।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ॥ ५७ ॥

पूर्वं वस्तुनः प्रख्यातोत्पाद्यत्वादिविभागप्रदर्शनक्रमेण साङ्गाः संधय उक्ताः । पुनस्तस्यैव विभागमाहेति दर्शयति पुनर्वस्तुविभागमाहेति । सर्वस्यापीति । न केवलमाधिकारिकस्य प्रासङ्गिकात्मनोऽपीत्यर्थः । सूच्यमेवेति ।445कदाचित् तस्याङ्कप्रवेश इत्यर्थः । किंचित् सूच्यमेव । अपरम्=असूच्यम् । दृश्यं च श्राव्यं च दृश्यश्राव्यम् । एवं च वस्तु सूच्यासूच्यात्मना द्विविधम् । असूच्यं तु पुनर्द्विविधं दृश्यं श्राव्यं च । तेन फलतो वस्तुनः सूच्यं दृश्यं श्राव्यमिति त्रैविध्यं निष्पन्नमिति ।

सूच्यस्य प्रतिपादनप्रकारमाह—

अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् ।
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ॥ ५८ ॥

  1. In T.MS. and M.G.T. na is missing.