69 तत्र—

सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ॥ ६४ ॥

सर्वश्राव्यं यद् वस्तु तत् प्रकाशमित्युच्यते । यत्तु सर्वस्याश्राव्यं तत् स्वगतमितिशब्दाभिधेयम् ।

वस्तुनः सूच्यत्वं दृश्यत्वं च दर्शितम् । अथ श्राव्यत्वमवशिष्यते । तत्प्रदर्शनप्रकारमाह पुनरिति । प्रसिद्धमित्येवास्माभिर्वस्तु न466 प्रदर्श्यते किं तु प्रसिद्धं च नाट्योपयुक्तं चेत्युक्तं नाट्यधर्ममवेक्ष्येति । सर्वेषामिति । सर्वेषां श्राव्यं, नियतस्यैव श्राव्यं, सर्वेषामश्राव्यं चेत्यर्थः । सर्वत्वं चात्र नायकव्यतिरिक्तापेक्षया । 467ननु नाटकादौ च सर्वश्राव्यं सर्वाश्राव्यमित्युक्तिः क्वचिन्न दृष्टा । तत्रोक्तं सर्वश्राव्यमित्यादि । तद् विवृणोति सर्वश्राव्यं यद् वस्त्विति ।

नियतश्राव्यमाह—

द्विधान्यन्नाट्यधर्माख्यं जनान्तमपवारितम् ।

अन्यत्तु नियतश्राव्यं द्विप्रकारं जनान्तिकापवारितभेदेन ।

तत्र जनान्तिकमाह—

त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ॥ ६५ ॥
अन्योन्यमन्त्रणं यत् स्याज्जनान्ते तज्जनान्तिकम् ।

यस्य न श्राव्यं तमन्तरा468 ऊर्ध्वसर्वाङ्गुलं वक्रानामिकं त्रिपताकालक्षणं करं कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकमिति ।

  1. After nāyakavyatiriktāpekṣayā all the MSS. read tathā vivṛṇoti sarvāśrāvyaṃ yad vastv iti. Its significance is not clear to me.

  2. N.S.P. tasyāntare, and vakrānāmikatripatākālakṣaṇam.