70 अथापवारितम्—

रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥ ६६ ॥

परावृत्यान्यस्य रहस्यकथनमपवारितमिति ।

परावृत्येति । अन्येन सह कथयन् ततः परावृत्य अन्यकर्णे यत् कथयति तदपवारितमित्यर्थः ।

नाट्यधर्मप्रसङ्गादाकाशभाषितमाह—

किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानुक्तमप्येकस्तत् स्यादाकाशभाषितम् ॥ ६७ ॥

स्पष्टार्थः ।

नाट्यधर्मप्रसङ्गादिति । स्वयमप्रसक्तस्याप्याकाशभाषितस्य नाट्यधर्माणां प्रसक्तत्वादस्यापि नाट्यधर्मत्वाच्च तत्प्रसङ्गादेतदुच्यत इत्यर्थः ।

अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि । तेषामभारतीयत्वान्नाममात्रप्रसिद्धानां469 केषांचिद् देशभाषात्मकत्वान्नाट्यधर्मत्वाभावाल्लक्षणं नोक्तमित्युपसंहरति—

इत्याद्यशेषमिह वस्तुविभेदजातं470 रामायणादि च विभाव्य बृहत्कथां च ।
आसूत्रयेत् तदनु नेतृरसानुगुण्या- च्चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ ६८ ॥
इति धनंजयविरचिते दशरूपके प्रथमः प्रकाशः

  1. N.S.P. nāmamālāprasiddhānām.

  2. A.T.A. -viśeṣajātam.