11 91अनुकारात्मकत्वेन 92रूपकाणामभेदात् किंकृतो भेद इत्याशङ्क्याह—

93वस्तु नेता रसस्तेषां भेदको

94इतिवृत्तभेदान्नायकभेदाद्रसभेदाच्च95 रूपकाणामन्योन्यं भेद इति ।

ऐक्यप्रसङ्गे हि भेदकथनस्य प्रयोजनवत्त्वम् । तेनाह अनुकारात्मकत्वेन रूपकाणामभेदादिति । इतिवृत्तादीनामवान्तरभेदो96 रूपकभेदहेतुः । तेनाह इतिवृत्तभेदादित्यादि । इतिवृत्तस्य इतिवृत्तान्तरेभ्यो भेदात्, नायकस्य नायकान्तरेभ्यो भेदात्, रसस्य रसान्तरेभ्यो भेदादिति नेयम् । ननु विजातीयेभ्यो नृत्तेभ्यो भेदः पूर्वमेव प्रतिपादितः । तत्राह अन्योन्यमिति ।

तत्र97 वस्तुभेदमाह—

वस्तु च द्विधा ।

कथमित्याह—

तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विद्वः ॥ ११ ॥

प्रधानभूतमितिवृत्तमाधिकारिकम्98 । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ।

निरुक्त्याधिकारिकं लक्षयति—

अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ १२ ॥

फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, 99तेनाधिकारिणा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ।

  1. A.T.A. anukaraṇātma-, etc.

  2. N.S.P. rūpāṇām, etc.

  3. A.T.A. seems to read here vastunetṛrasās teṣāṃ rūpakāṇāṃ hi bhedakāḥ.

  4. N.S.P. vastubhedād, etc.

  5. N.S.P. rasabhedād rūpāṇām, etc.

  6. M.G.T. alone reads itivṛttanāyakarasabhedo rūpakabhedahetuḥ.

  7. N.S.P. omits tatra.

  8. itivṛttam missing in N.S.P.

  9. N.S.P. tenādhikāreṇādhikāriṇā vā, etc.