11 91अनुकारात्मकत्वेन 92रूपकाणामभेदात् किंकृतो भेद इत्याशङ्क्याह—

93वस्तु नेता रसस्तेषां भेदको

94इतिवृत्तभेदान्नायकभेदाद्रसभेदाच्च95 रूपकाणामन्योन्यं भेद इति ।

ऐक्यप्रसङ्गे हि भेदकथनस्य प्रयोजनवत्त्वम् । तेनाह अनुकारात्मकत्वेन रूपकाणामभेदादिति । इतिवृत्तादीनामवान्तरभेदो96 रूपकभेदहेतुः । तेनाह इतिवृत्तभेदादित्यादि । इतिवृत्तस्य इतिवृत्तान्तरेभ्यो भेदात्, नायकस्य नायकान्तरेभ्यो भेदात्, रसस्य रसान्तरेभ्यो भेदादिति नेयम् । ननु विजातीयेभ्यो नृत्तेभ्यो भेदः पूर्वमेव प्रतिपादितः । तत्राह अन्योन्यमिति ।

तत्र97 वस्तुभेदमाह—

वस्तु च द्विधा ।

कथमित्याह—

तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विद्वः ॥ ११ ॥

प्रधानभूतमितिवृत्तमाधिकारिकम्98 । यथा रामायणे रामसीतावृत्तान्तः । तदङ्गभूतं प्रासङ्गिकम् । यथा तत्रैव विभीषणसुग्रीवादिवृत्तान्त इति ।

निरुक्त्याधिकारिकं लक्षयति—

अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।
तन्निर्वर्त्यमभिव्यापि वृत्तं स्यादाधिकारिकम् ॥ १२ ॥

फलेन स्वस्वामिसंबन्धोऽधिकारः, फलस्वामी चाधिकारी, 99तेनाधिकारिणा निर्वृत्तं फलपर्यन्ततां नीयमानमितिवृत्तमाधिकारिकम् ।

  1. A.T.A. anukaraṇātma-, etc.

    ↩
  2. N.S.P. rūpāṇām, etc.

    ↩
  3. A.T.A. seems to read here vastunetṛrasās teṣāṃ rūpakāṇāṃ hi bhedakāḥ.

    ↩
  4. N.S.P. vastubhedād, etc.

    ↩
  5. N.S.P. rasabhedād rūpāṇām, etc.

    ↩
  6. M.G.T. alone reads itivṛttanāyakarasabhedo rūpakabhedahetuḥ.

    ↩
  7. N.S.P. omits tatra.

    ↩
  8. itivṛttam missing in N.S.P.

    ↩
  9. N.S.P. tenādhikāreṇādhikāriṇā vā, etc.

    ↩