12 निरुक्त्येति । निर्वचनेन सह आधिकारिकस्य लक्षणं कथयतीत्यर्थः । ननु कारिकायां फलस्वाम्यं तच्छब्देन परामृश्यते । तच्चानुचितमिव प्रतिभाति । तेनाह फलेन स्वस्वामिसंबन्ध इति । फलेन सह स्वस्वामिलक्षणसंबन्धोऽधिकारः । संबन्धो हि गुणप्रधानयोरेव भवति । फलभोक्तुर्गुणभावः कदाचिदपि मा भूदिति तत्प्रभुरित्युक्तमित्याह फलस्वामी चाधिकारीति । फलपर्यन्ततां नीयमानमिति प्रत्ययार्थं निर्वृत्तं विशिनष्टि । कारिकायां निर्वर्त्यमित्यन्तेन निरुक्तकथनम् । अभिव्यापीति लक्षणकथनम् । अयं च निरुक्तक्रमः । अधिकारोऽस्यास्तीति अधिकारी । तस्मादधिकारिशब्दात् ठकि ‘यस्येति च’ इतीकारलोपे वृद्धौ च कृतायामाधिकारिकमिति रूपं भवति ।

प्रासङ्गिकं निर्व्याचष्टे100

प्रासङ्गिकं परार्थस्य स्वार्थो यस्य प्रसङ्गतः ।

यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात् स्वप्रयोजनसिद्धिः तत् प्रासङ्गिकमितिवृत्तम् । प्रसङ्गनिर्वृत्तेः प्रासङ्गिकम् ।

प्रासङ्गिकस्य लक्षणकथनपूर्वकं निर्वचनं दर्शयतीत्याह प्रासङ्गिकं निर्व्याचष्ट इति । तस्य लक्षणोक्तिं विवृणोति यस्येतिवृत्तस्येति । शब्दनिर्वचनं101 दर्शयति प्रसङ्गनिर्वृत्तेः प्रासङ्गिकमिति ।

प्रासङ्गिकमपि पताका-प्रकरीभेदाद् द्विविधमित्याह—

पताकाप्रकरीभेदाद् द्विविधत्वं प्रपद्यते102
सानुबन्धं पताकाख्यं प्रकरी च प्रदेशभाक् ॥ १३ ॥

दूरं यदनुवर्तते प्रासङ्गकं सा पताका, सुग्रीवादिवृत्तान्तवत् । पताकेवासाधारणनायकचिह्नवत् तदुपकारित्वात् । यदल्पं = 103दूरं नानुवर्तते सा प्रकरी, श्रावणादिवृत्तान्तवत् ।

  1. N.S.P. vyācaṣṭe.

  2. Tri. MS. reads śabdanirvacanāṅgaṃ darśayati, and T.MS. gives it as śabdanirvacanāc chandaṃ darśayati. The others read what is given in the text.

  3. Only A.T.A. gives this half verse and it is not found in N.S.P.

  4. dūraṃ nānuvartate missing in N.S.P.