15 तत्साधनं व्युत्पादयति—

स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।

स्तोकोद्दिष्टः कार्यसाधकः 116परस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद् बीजम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायणव्यापारो विष्कम्भके न्यस्तः 117

यौगंधरायणः

कः संदेहः ।

118इत्यादिना प्रारम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ119 इत्यन्तेन]

यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितो120 युधिष्ठिरोत्साहो बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ।

उद्देशगतमल्पत्वमिति दर्शयति स्तोकोद्दिष्टस्त्विति । बीजवद् बीजमिति बीजशब्दस्य गौणतामाह ।

तत्र121 अवान्तरबीजस्य संज्ञान्तरमाह—

अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥ १७ ॥

यथा रत्नावल्यामवान्तरप्रयोजनानङ्गपूजापरिसमाप्तौ कथार्थविच्छेदे सत्यनन्तरकार्यहेतुः—

उदयनस्येन्दोरिवोद्वीक्षते ।

सागरिका
श्रुत्वा 122सहर्षं परिवृत्य सस्पृहं पश्यन्ती

123कहं एसो सो उदयणणरिंदो जस्स अहं तादेण दिण्णा ।124

इत्यादि । बिन्दुर्जले तैलबिन्दुवत् प्रसारित्वात् ।

बिन्दुर्जले तैलबिन्दुवदिति बिन्दुशब्दोऽपि गौण इत्युक्तं भवति । कार्यार्थी कश्चित् कर्ता125 कमपि कार्यसाधकहेतुविशेषमवलम्ब्य हि व्याप्रियते । स चात्र परस्तादनेकधा विस्तारित्वात् प्रथमं बीजशब्दवाच्योऽभूत् । पश्चाद् बहुविधं प्रसारित्वाद् बिन्दुशब्दवाच्योऽभूत् । एवमुपर्यपि नेयमिति ।

  1. N.S.P. purastād.

  2. Bracketed portion is missing in A.T.A.

  3. द्वीपादन्यस्माद् १।७ इति पठति

  4. १।८
  5. -upacitayudhiṣṭhirotsāho in N.S.P.

  6. N.S.P. omits tatra.

  7. saharṣaṃ parivṛtya saspṛhaṃ paśyantī is missing in N.S.P.

  8. ‘कथमेष स उदयननरेन्द्रो यस्याहं तातेन दत्ता ।’ इति च्छाया.

  9. रत्ना० पृ० ४०
  10. T.MS. omits kartā, whereas all others read it.