18 उपायस्यापायशङ्कायाश्च भावादनिर्धारितैकान्ता फलप्राप्तिः प्राप्त्याशा । यथा रत्नावल्यां तृतीयेऽङ्के136 वेषपरिवर्ताभिसरणादौ समागमोपायस्य137 वासवदत्तालक्षणापायशङ्कायाश्च—138एवं जदि अआलवादावली विअ आअच्छिअ अण्णदो ण णइस्सदि वासवदत्ता । इत्यादिना दर्शितत्वादनिर्धारितैकान्ता 139सागरिकासमागमप्राप्तिरुक्त ।

उपायापायशङ्काभ्यामित्यत्र शङ्कापदमुत्तरत्रैव अन्वेति न पूर्वत्रेति दर्शयति उपायस्यापायशङ्कायाश्च भावादिति ।

नियताप्तिमाह—

अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता ॥ २१ ॥

अपायाभावादवधारितैकान्ता फलप्राप्तिर्नियताप्तिरिति । यथा रत्नावल्याम्—

विदूषकः

140सागरिका उण दुक्करं 141जीविस्सदि ।142

इत्युपक्रम्य,

143किं ण उपायं चिंतेसि ।

इत्यनन्तरम्,
राजा

वयस्य, देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्यामि ।144

इत्यनन्तराङ्कार्थबिन्दुनानेन देवीलक्षणापायस्य प्रसादनेन निवारणान्नियता फलप्राप्तिः सूचितेति ।

  1. पृ० १२९
  2. N.S.P. samāgamopāye sati, and … -pāyaśaṇkāyā evaṃ.

  3. ‘एवं यदि अकालवातावलीवागत्यान्यतो न नेष्यति वासवदत्ता ।’ इति च्छाया.

  4. N.S.P. omits sāgarikā.

  5. ‘सागरिका पुनः दुष्करं जीविष्यति ।’ इति च्छाया.

  6. The edition of the Ratnā:alī to which I had access has different readings here.

  7. पृ० १२४
  8. ‘किं नोपायं चिन्तयसि ।’ इति च्छाया.

  9. पृ० १२५