97 एवमपरेऽपि व्रीडानुपहिताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति । यथा—

स्वेदाम्भःकणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्गमे विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धिं गते ।
दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय- स्तन्वङ्ग्या हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥

स्वतोऽनभियोजकत्वं तु हठकेशकर्षणघनाश्लेषामृते लुब्धयेवेत्युत्प्रेक्षया569 प्रतीयते ।

ननु मध्यालक्षणं स्वतोऽनभियोजकत्वमुक्तम् । तच्च न 570मध्यास्वभावेन । किं तु लोभकृतमिति प्रतिभाति । तत्राह स्वतोऽनभियोजकत्वं त्विति । उत्प्रेक्षाप्रतीतिबलादनभियोगो मध्यास्वभावकृत एवेति ज्ञायते । अन्यस्यान्यथाभानं हि उत्प्रेक्षा । तेन मध्यास्वभावकृत एव स्वयमनभियोगः प्रियतमकृतयोर्हठकेशकर्षणघनाश्लेषामृतयोर्लोभहेतुत्वेन उत्प्रेक्ष्यते । 571तस्याः स्वारसिकमेवानभियोजकत्वमित्यर्थः ।

अथ प्रगल्भा—

यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके ।
विलीयमानेवानन्दाद् रतारम्भेऽप्यचेतना ॥ १८ ॥

गाढयौवना, यथा ममैव—

अभ्युन्नतस्तनमुरो नयने च दीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि ।
मध्योऽधिकं तनुरतीव गुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥

  1. N.S.P. utprekṣāpratīteḥ.

  2. M.G.T. reads madhyāsvabhāvaḥ.

  3. Except in Gr.MS., in all others tasyāḥ is missing.