99 मलिनत्वं भवति । 578क्वचिदपि च सालक्तकपद इत्यनेन त्रैविक्रमं रतमुच्यते । तत् खलु कुड्याद्यवष्टम्भेन स्थितायाः उत्क्षिप्तैकपादायाः पादान्तरेण स्थितायाश्च भवति । वलीभङ्गाभोगैरेत्यनेन उत्तानशयनं रतमुच्यते । तदा हि प्रच्छदपटस्य वलीभङ्गो भवति । अलकपतितैः शीर्णकुसुमैरित्यनेन पुरुषायितमुच्यते । तेन579 ह्यलकेभ्यः कुसुमानि पतन्ति । तेन तेन तत्तज्जातीयान्तराणामप्युपलक्षणात् सर्वावस्थमित्याह ।

अथास्याः कोपचेष्टा—

सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा ।
संतर्ज्य ताडयेन्मध्या मध्याधीरेव तं वदेत् ॥ १९ ॥

सहावहित्थेनाकारसंवरणेनादरेण चोपचाराधिक्येन वर्तते सा सावहित्थादरा । रतावुदासीना क्रुधा कोपेन भवति ।

सावहित्थेतिसूत्रस्यायमर्थः । धीरा क्रुद्धा 580 सावहित्थादरा सती रतावुदास्ते । इतरा=अधीरा क्रुद्धा दयितं संतर्ज्य ताडयेत् । प्रगल्भमध्या=धीराधीरा तु मध्याधीरेव581 तं वदेदिति । तथैव व्याचष्टे सावहित्थेत्यादिना ।

सावहित्थादरा यथामरुशतके—

एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरत- स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥582

रतावुदासीना यथा—

आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भग्नभ्रूंगतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।

  1. Before kvacid api ca sālaktakapadaḥ only in M.G.T. the incomplete (it is incomplete unfortunately) line kvacic cūrṇodgārīty anena is found.

  2. Only M.G.T. reads na hy alakebhyaḥ kusumapāto ’nyathā bhavati.

  3. For avahitthā see Daśarūpaka IV.29.

  4. For madhyādhīrā see II.17.

  5. श्लो॰ १८