सावहित्थादरा यथामरुशतके—

एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरत- स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥582

रतावुदासीना यथा—

आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भग्नभ्रूंगतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
100 अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥583

इतरा त्वधीरप्रगल्भा कुपिता सती संतर्ज्य ताडयति । यथामरुशतके—

कोपात् कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा केलिनिकोतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एष निह्‏नुतिपरः प्रेयान् रुदत्या हसन् ॥584

धीराधीरप्रगल्भा मध्याधीरेव तं वदति सोत्प्रासवक्रोक्त्या । यथा तत्रैव—

कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥585

  1. श्लो॰ १८
  2. अमरु॰ श्लो॰ १०६
  3. श्लो॰ ९
  4. अमरु॰ श्लो॰ ३८