100 अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥583

इतरा त्वधीरप्रगल्भा कुपिता सती संतर्ज्य ताडयति । यथामरुशतके—

कोपात् कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं नीत्वा केलिनिकोतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एष निह्‏नुतिपरः प्रेयान् रुदत्या हसन् ॥584

धीराधीरप्रगल्भा मध्याधीरेव तं वदति सोत्प्रासवक्रोक्त्या । यथा तत्रैव—

कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥585

पुनश्च—

द्वैधा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताः ।

मध्याप्रगल्भाभेदानां प्रत्येकं ज्येष्ठाकनिष्ठात्वभेदेन द्वादश भेदा भवन्ति । मुग्धा त्वेकरूपैव ।

ज्येष्ठाकनिष्ठे यथामरुशतके586

दृष्टैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।

  1. अमरु॰ श्लो॰ १०६
  2. श्लो॰ ९
  3. अमरु॰ श्लो॰ ३८
  4. श्लो॰ १९