अथान्यस्त्री—

अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित् ॥ २० ॥
कन्यानुरागमिच्छातः कुर्यादङ्गाङ्गिसंश्रयम् ।

102 नायकान्तरसंबन्धिन्यन्योढा, यथा—

दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मिन् गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि 588तद्वननदीस्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥

इयं त्वङ्गिनि प्रधाने रसे न क्वचिन्निबन्धनीयेति न प्रपञ्चिता । कन्यका तु पित्राद्यायत्तत्वादपरिणीताप्यन्यस्त्रीत्युच्यते । तस्यां पित्रादिभ्योऽलभ्यमानायां सुलभायामपि परोपरोधस्वकान्ताभयात् प्रच्छन्नं कामित्वं प्रवर्तते । यथा मालत्यां माधवस्य, सागरिकायां च वत्सराजस्येति, तदनुरागश्च स्वेच्छया प्रधानाप्रधान-रससमाश्रयो निबन्धनीयः । यथा रत्नावली-नागानन्दयोः सागरिका-मलयव-त्यनुराग इति ।

नान्योढा अङ्गिरसे क्वचिदित्येतदप्रपञ्चे कारणमुक्तमित्याह इयं त्विति । अनूढायाः कन्यायाः कथमन्यस्त्रीत्ववाचोयुक्तिः । तत्राह कन्यका त्विति । अयमप्यन्यस्त्रीति शब्दनिर्वाह एव । फलं तु प्रच्छन्नकामित्वम् । सुलभायां तस्यां किं प्रच्छन्नकामित्वेन । तत्राह तस्यामिति । स्वकान्ताभयादिति भयमात्रस्योपलक्षणम् । तेन माधवस्य मालत्यां राजभयात् प्रच्छन्नकामित्वम् । स्वेच्छात इत्यस्य व्याख्यानं प्रधानाप्रधानरससमाश्रय इति ।

  1. N.S.P. tad varam itaḥ.