अथ भेदान्तराणि—

आसामष्टाववस्थाः स्युः स्वाधीनपतिकादिकाः ॥ २३ ॥

104 स्वाधीनपतिका, वासकसज्जा, विरहोत्कण्ठिता, खण्डिता, कलहान्तरिता, विप्रलब्धा, प्रोषितप्रिया, अभिसारिका इत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः । नायिकाप्रभृतीनामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूर्वासां धर्मित्वप्रतिपादनाय । अष्टाविति न्यूनाधिकव्यवच्छेदः । न च वासकसज्जादेः स्वाधीनपतिकादावन्तर्भावः । अनासन्नप्रियत्वात् । वासकसज्जाया न स्वाधीनपतिकात्वम् । यदि चैष्यत्प्रियापि स्वाधीनपतिका 590प्रोषितप्रियापि स्वाधीनपतिका तदा प्रोषितप्रियापि न पृथग्वाच्या । न चेयता 591व्यवधानेनासत्तिरियता त्वनासत्तिरिति नियन्तुं शक्यम् । न चाविदितप्रियव्यलीकायाः खण्डितात्वं, नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं, स्वयमगमनान्नायकं प्रत्यप्रयोजकत्वान्नाभिसारिकात्वम् । एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः । औचित्यप्राप्तप्रियागमनसमयातिवृत्तिविधुरा न वासकसज्जा । तथा विप्रलब्धापि वासकसज्जावदन्यैव पूर्वाभ्यः । उक्त्वा नायात इति प्रतारणाधिक्याच्च वासकसज्जोत्कण्ठितयोः पृथक् । कलहान्तरिता तु यद्यपि विदितव्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकाशितप्रसादा पृथगेव खण्डितायाः । तत् स्थितमेतदष्टाववस्था इति ।

आसामिति स्वस्त्रीप्रभृतीनां संग्रह इति दर्शयति स्वस्त्रीप्रभृतीनामवस्था इति । ननु नायकनायिकाप्रभृतिशब्दानामपि गुणापादितावस्थावचनत्वादासां भेद एव वक्तव्यः । पुनः किमवस्थाग्रहणेन । तत्राह नायिकाप्रभृतीनामपीति । शब्दाधिक्यमर्थाधिक्यफलमिति न्यायात् नायिकाप्रभृतीनां धर्मिणीनां स्वाधीनपतिकात्वादयः कथं धर्मा भवेयुरिति पुनस्तद्ग्रहणम् । अन्यथा हि यस्या नायिकात्वमवस्था, तस्या एव स्वाधीनपतिकात्वमिति 592अवस्थावन्त एव एते भेदा अपि धर्मा भवेयुः, न पुनर्नायिकानामिति । ननु स्वरूपालोचनेनैव एषामष्टत्वे सिद्धे पुनः किमष्टत्वग्रहणेन । तत्राह अष्टाविति 593न्यूनाधिकव्यवच्छेद इति । न्यूनत्वमेवाशङ्क्य समादधाति न चेत्यादिना । ननु विशेषे गोत्वादौ चतुष्पात्त्वस्यानन्तर्भावेऽपि105 विशेषान्तर्भावो दृष्ट इति मन्वानो वासकसज्जायाः स्वाधीनपतिकायां नान्तर्भाव इत्याह वासकसज्जाया न स्वाधीनपतिकात्वमिति । अनासन्नप्रियत्वादित्येव हेतुः । तमिमं विपक्षे बाधकोपन्यासेन द्रढयति यदि चेति । आसत्तिविशेषात् तयोरस्तु नियम इति चेत् तत्राह न चेति । तर्हि खण्डितायामन्तर्भावो भविष्यति । तत्राह न चाविदितेति । सा हि विदितप्रियव्यलीका । इयं तु नैवमित्यर्थः । तर्हि अनासन्नप्रियत्वादेव प्रोषितप्रियायामन्तर्भावो भविष्यति । तत्राह नापीति । इयं तु प्रवृत्तरतिभोगेच्छा । तस्यास्तु प्रियः प्रोषित इति ज्ञानात् सा न प्रवृत्तरतीच्छा । तर्हि अभिसारिकायामन्तर्भावो भविष्यति । तत्राह स्वयमिति । अभिसरन्ती अभिसारयन्ती वा हि अभिसारिका । वासकसज्जायास्तु अभिसरणे कर्तृत्वं प्रयोजकत्वं च नास्तीत्यर्थः । वासकसज्जां परिसमाप्य उत्कण्ठिताया भेदमाह एवमिति । वासकसज्जान्यायेनेत्यर्थः । तर्हि तस्या वासकसज्जायामन्तर्भावो भविष्यति । तत्राह औचित्येति । उत्कण्ठिता हि औचित्यप्राप्तया प्रियागमसमयातिवृत्त्या खिद्यते । वासकसज्जा तु न तथेति । एवमुत्कण्ठितामपि परिसमाप्य विप्रलब्धाया भेदमतिदिशति तथेति । तर्हि वासकसज्जोत्कण्ठितयोरेवान्तर्भावो विप्रलब्धाया भविष्यति ।594 तत्राह उक्त्वेति । आगमिष्यामीत्युक्त्वापि अनागतः प्रियो यस्याः सा विप्रलब्धा न वासकसज्जा । उत्कण्ठिता तु यद्यपि विदितप्रियव्यलीका, तथापि ततो विप्रलब्धायां प्रियप्रतारणमधिकम् । ततो595 वासकसज्जोत्कण्ठितयोः पृथक् विप्रलब्धेत्यर्थः । ननु कलहान्तरिताया विदितप्रियव्यलीकत्वात् खण्डितायामन्तर्भावो भविष्यति । तत्राह कलहान्तरितेति । प्रियव्यलीकवेदने समानेऽपि खण्डिताकलहान्तरितयोः, सा खण्डिता गृहीतप्रियानुनया । इयं कलहान्तरिता तु अगृहीतप्रियानुनया सती गते प्रिये पश्चात्तापेन प्रकाशितप्रसादा भवति । अतः खण्डितायाः कलहान्तरिता पृथगेवेत्यर्थः । तेन न्यूनताभावद् अष्टसंख्यावत्त्वमस्त्येवेत्याह तदिति ।

  1. N.S.P. omits proṣitapriyāpi svādhīnapatikā tadā.

  2. N.S.P. vyavadhānenāsattir iti niyantum, etc.

  3. It is not clear. T.MS., Gr.MS. and M.G.T. read avasthāvata eva. Tri.MS. gives as avasthā. ata eva ete, etc.

  4. Only Gr.MS. gives this pratīka. In T.MS. it is missing.

  5. The portion from tarhi to tato is missing in T.MS. and Gr.MS.

  6. The portion from tarhi to tato is missing in T.MS. and Gr.MS.