104 स्वाधीनपतिका, वासकसज्जा, विरहोत्कण्ठिता, खण्डिता, कलहान्तरिता, विप्रलब्धा, प्रोषितप्रिया, अभिसारिका इत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः । नायिकाप्रभृतीनामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूर्वासां धर्मित्वप्रतिपादनाय । अष्टाविति न्यूनाधिकव्यवच्छेदः । न च वासकसज्जादेः स्वाधीनपतिकादावन्तर्भावः । अनासन्नप्रियत्वात् । वासकसज्जाया न स्वाधीनपतिकात्वम् । यदि चैष्यत्प्रियापि स्वाधीनपतिका 590प्रोषितप्रियापि स्वाधीनपतिका तदा प्रोषितप्रियापि न पृथग्वाच्या । न चेयता 591व्यवधानेनासत्तिरियता त्वनासत्तिरिति नियन्तुं शक्यम् । न चाविदितप्रियव्यलीकायाः खण्डितात्वं, नापि प्रवृत्तरतिभोगेच्छायाः प्रोषितप्रियात्वं, स्वयमगमनान्नायकं प्रत्यप्रयोजकत्वान्नाभिसारिकात्वम् । एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः । औचित्यप्राप्तप्रियागमनसमयातिवृत्तिविधुरा न वासकसज्जा । तथा विप्रलब्धापि वासकसज्जावदन्यैव पूर्वाभ्यः । उक्त्वा नायात इति प्रतारणाधिक्याच्च वासकसज्जोत्कण्ठितयोः पृथक् । कलहान्तरिता तु यद्यपि विदितव्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापप्रकाशितप्रसादा पृथगेव खण्डितायाः । तत् स्थितमेतदष्टाववस्था इति ।

आसामिति स्वस्त्रीप्रभृतीनां संग्रह इति दर्शयति स्वस्त्रीप्रभृतीनामवस्था इति । ननु नायकनायिकाप्रभृतिशब्दानामपि गुणापादितावस्थावचनत्वादासां भेद एव वक्तव्यः । पुनः किमवस्थाग्रहणेन । तत्राह नायिकाप्रभृतीनामपीति । शब्दाधिक्यमर्थाधिक्यफलमिति न्यायात् नायिकाप्रभृतीनां धर्मिणीनां स्वाधीनपतिकात्वादयः कथं धर्मा भवेयुरिति पुनस्तद्ग्रहणम् । अन्यथा हि यस्या नायिकात्वमवस्था, तस्या एव स्वाधीनपतिकात्वमिति 592अवस्थावन्त एव एते भेदा अपि धर्मा भवेयुः, न पुनर्नायिकानामिति । ननु स्वरूपालोचनेनैव एषामष्टत्वे सिद्धे पुनः किमष्टत्वग्रहणेन । तत्राह अष्टाविति 593न्यूनाधिकव्यवच्छेद इति । न्यूनत्वमेवाशङ्क्य समादधाति न चेत्यादिना । ननु विशेषे गोत्वादौ चतुष्पात्त्वस्यानन्तर्भावेऽपि

  1. N.S.P. omits proṣitapriyāpi svādhīnapatikā tadā.

  2. N.S.P. vyavadhānenāsattir iti niyantum, etc.

  3. It is not clear. T.MS., Gr.MS. and M.G.T. read avasthāvata eva. Tri.MS. gives as avasthā. ata eva ete, etc.

  4. Only Gr.MS. gives this pratīka. In T.MS. it is missing.