105 विशेषान्तर्भावो दृष्ट इति मन्वानो वासकसज्जायाः स्वाधीनपतिकायां नान्तर्भाव इत्याह वासकसज्जाया न स्वाधीनपतिकात्वमिति । अनासन्नप्रियत्वादित्येव हेतुः । तमिमं विपक्षे बाधकोपन्यासेन द्रढयति यदि चेति । आसत्तिविशेषात् तयोरस्तु नियम इति चेत् तत्राह न चेति । तर्हि खण्डितायामन्तर्भावो भविष्यति । तत्राह न चाविदितेति । सा हि विदितप्रियव्यलीका । इयं तु नैवमित्यर्थः । तर्हि अनासन्नप्रियत्वादेव प्रोषितप्रियायामन्तर्भावो भविष्यति । तत्राह नापीति । इयं तु प्रवृत्तरतिभोगेच्छा । तस्यास्तु प्रियः प्रोषित इति ज्ञानात् सा न प्रवृत्तरतीच्छा । तर्हि अभिसारिकायामन्तर्भावो भविष्यति । तत्राह स्वयमिति । अभिसरन्ती अभिसारयन्ती वा हि अभिसारिका । वासकसज्जायास्तु अभिसरणे कर्तृत्वं प्रयोजकत्वं च नास्तीत्यर्थः । वासकसज्जां परिसमाप्य उत्कण्ठिताया भेदमाह एवमिति । वासकसज्जान्यायेनेत्यर्थः । तर्हि तस्या वासकसज्जायामन्तर्भावो भविष्यति । तत्राह औचित्येति । उत्कण्ठिता हि औचित्यप्राप्तया प्रियागमसमयातिवृत्त्या खिद्यते । वासकसज्जा तु न तथेति । एवमुत्कण्ठितामपि परिसमाप्य विप्रलब्धाया भेदमतिदिशति तथेति । तर्हि वासकसज्जोत्कण्ठितयोरेवान्तर्भावो विप्रलब्धाया भविष्यति ।594 तत्राह उक्त्वेति । आगमिष्यामीत्युक्त्वापि अनागतः प्रियो यस्याः सा विप्रलब्धा न वासकसज्जा । उत्कण्ठिता तु यद्यपि विदितप्रियव्यलीका, तथापि ततो विप्रलब्धायां प्रियप्रतारणमधिकम् । ततो595 वासकसज्जोत्कण्ठितयोः पृथक् विप्रलब्धेत्यर्थः । ननु कलहान्तरिताया विदितप्रियव्यलीकत्वात् खण्डितायामन्तर्भावो भविष्यति । तत्राह कलहान्तरितेति । प्रियव्यलीकवेदने समानेऽपि खण्डिताकलहान्तरितयोः, सा खण्डिता गृहीतप्रियानुनया । इयं कलहान्तरिता तु अगृहीतप्रियानुनया सती गते प्रिये पश्चात्तापेन प्रकाशितप्रसादा भवति । अतः खण्डितायाः कलहान्तरिता पृथगेवेत्यर्थः । तेन न्यूनताभावद् अष्टसंख्यावत्त्वमस्त्येवेत्याह तदिति ।

तत्र—

आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ।

  1. The portion from tarhi to tato is missing in T.MS. and Gr.MS.

  2. The portion from tarhi to tato is missing in T.MS. and Gr.MS.