106 यथा—

मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद् भवति वेपथुरन्तरायः ॥

एवमवस्थितभेदानां स्वाधीनपतिकाप्रभृतीनां सोदाहरणं लक्षण कथयति तत्रेत्यादिना ।

अथ वासकसज्जा—

मुदा वासकसज्जा स्वं मण्डयत्येष्यति प्रिये ॥ २४ ॥

स्वमात्मानं वेश्म च हर्षेण भूषयत्येष्यति प्रिये वासकसज्जा । यथा—

निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥596

स्वशब्दस्य आत्मवाचित्वमात्मीयवाचित्वं चाङ्गीकृत्याह स्वमात्मानं वेश्म चेति ।

अथ विरहोत्कण्ठिता—

चिरयत्यव्यलीके तु 597विरहोत्कण्ठितोन्मनाः ।

यथा—

सखि स विजितो 598वीणावाद्यैः कयाप्यपरस्त्रिया पणितमभवत् ताभ्यां तत्र क्षपाललितं ध्रुवम् ।

  1. शिशु॰ ९ । ५२
  2. ‘विरहोत्कण्ठिता मता’ इति पाठः.
  3. A.T.A. vīṇādyūte kayā, etc.