108 यथा—

उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत् तस्याः ॥

अथ प्रोषितप्रिया—

दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया ।

यथामरुशतके—

आ दृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥602

अथाभिसारिका—

कामार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका ॥ २७ ॥

यथामरुशतके—

उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥603

यथा च—

न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगभ्य वदेरभिदूति काचिदिति संदिदिशे ॥604

  1. श्लो॰ ७६
  2. श्लो॰ ३१
  3. शिशु॰ ९ । ५६