79 पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् ।
वनं याम्यहमप्येष यथा जीमूतवाहनः ॥505
इत्यादिना च ।506 अतोऽस्यात्यन्तशमप्रधानत्वात् परमकारुणिकत्वाच्च वीतरागादिवच्छान्तता । अन्यच्चात्रायुक्तं यत् तथाभूतं राज्यसुखादौ निरभिलाषं नायकमुपपाद्यान्तरा तथाभूतमलयवत्यनुरागोपवर्णनम् । यच्चोक्तं सामान्यगुणयोगी द्विजादिर्धीरशान्त इति, तदपि पारिभाषिकत्वादवास्तवमित्यभेदकम् । अतो वस्तुगत्या बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविर्भावयन्ति । अत्रोच्यते—यत् तावदुक्तं सर्वोत्कर्षेण वृत्तिरौदात्त्यमिति, न तज्जीमूतवाहनादौ परिहीयते न ह्येकरूपैव विजिगीषुता । यः केनापि शौर्यत्यागदयादिनान्यानति शेते स विजिगीषुः, न तु यः 507पराक्रमेणार्थग्रहादिप्रवृत्तः । 508तथात्वे च मार्गदूषकादेरपि धीरोदात्तत्वप्रसक्तिः । रामादेरपि जगत् पालनीयमिति दुष्टनिग्रहे प्रवृत्तस्य नान्तरीयकत्वेन भूम्यादिलाभः । जीमूतवाहनादिस्तु प्राणैरपि परार्थसंपादनाद् विश्वमप्यतिशेत इति धीरोदात्ततमः । यच्चोक्तम्—तिष्ठन् भाति—509 इत्यादिना विषयसुखपराङ्मुखतेति, तत् सत्यम् । कार्पण्यहेतुषु स्वसुखतृष्णासु निरभिलाषा एव जिगीषवः । यदुक्तम्—
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छाययोपाश्रितानाम् ॥510
इत्यादिना । मलयवत्यनुरागोपवर्णनं त्वशान्तरसाश्रयं शान्तनायकतां प्रत्युत निषेधति । शान्तत्वं चानहंकृतत्वं, तच्च विप्रादेरौचित्यप्राप्तमिति वस्तुस्थित्या विप्रादेः शान्तता न स्वपरिभाषामात्रेण । बुद्ध-जीमूतवाहनयोस्तु कारुणिकत्वाविशेषेऽपि 511सकामनिष्कामकरुणादिभेदाद्भेदः । अतो जीमूतवाहनादेर्धीरोदात्तत्वमिति ।

  1. नाग॰ १।४
  2. N.S.P. ity anena ca.

  3. N.S.P. parāpakāreṇa.

  4. A.T.A. tathā conmārga-, etc.

  5. नागा॰ १।७
  6. शाकु॰ ५।७
  7. N.S.P. -karuṇatvādidharmatvād bhedaḥ.