112 तानेव निर्दिशति—

निर्विकारात्मकात् सत्त्वाद् भावस्तत्राद्यविक्रिया ॥ ३३ ॥

तत्र विकारहेतौ सत्यप्यविकारात्मकं सत्त्वम्615 । यथा कुमारसंभवे 616

श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
तस्मादविकाररूपात् सत्त्वात् यः प्रथमो विकोऽन्तर्विपरिवर्तिबीजस्योच्छूनतेव स भावः । यथा—
दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥

यथा वा कुमारसंभवे—

हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥617

यथा वा ममैव—

तं च्चिअ वअणं ते च्चेअ लोअणे जोव्वणं पि तं च्चेअ ।
अण्णा अणंगलच्छी अण्णं च्चिअ किं पि साहेइ ॥

तासत्त्वज्ञाने हि सात्त्विकज्ञानम् । तेनाह निर्विकारात्मकात् सत्त्वादिति । रागद्वेषाभ्यामनुपहतं हि मनः सत्त्वम् । तथैव व्याचष्टे विकारहेतौ सत्यपीति । अन्तर्विपरिवर्तीति । आत्मनि विपरिवर्तिनो बीजस्य यःप्रथमो विकारः उच्छूनतासंज्ञकः तत्सदृशः सत्त्वस्य प्रथमो विकारो भाव इति । तं च्चिअ ।

  1. N.S.P. avikārakaṃ sattvam.

  2. ३।४०
  3. ३।६७