114 अथायत्नजाः सप्त । तत्र शोभा—

रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।

यथा कुमारसंभवे—

तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥623
इत्यादि । यथा च शाकुन्तले— 624
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥625

अथ कान्तिः—

626मन्मथाप्यायितच्छाया सैव कान्तिरिति स्मृता ॥ ३५ ॥

शोभैव रागावतारघनीकृता कान्तिः । यथा—

उन्मीलद्वदनेन्दुदीप्तिविसरैर्दूरे समुत्सारितं भिन्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् ।
एतस्याः कलविङ्कण्ठकदलीकल्पं मिलत्कौतुका- दप्राप्ताङ्गसुखं रुषेव सहसा केशेषु लग्नं तमः ॥

यथा हि महाश्वेतावर्णनावसरे भट्टबाणस्य ।

मिलत्कौतुकादिति । अङ्गसुखप्राप्तिकौतुकात् मिलदित्यर्थः ।627

  1. ७।१३
  2. This verse is cited in A.T.A. as an example of kānti, the next item.

  3. २।१०
  4. A.T.A. and Bahurūpamiśra both give the above reading. N.S.P. reads manmathāmāpitacchāyā.

  5. Except T.MS. all others read aṅgasukhaprāptikautukād ity arthaḥ.