80 ननु सामान्यद्वारा512 प्राप्तानां स्थिरत्वादिगुणानां पुनः किमर्थं क्वचिदुदात्तादौ विशेषसंकीर्तनम् । तत्राह यच्चेति । जीमूतव हनादिरुदात्तत्वेनोदाहृतः । तदसहमानश्चोदयति नन्विति । जीमूतवाहनादिः बुद्धादिवच्छान्त एव । स कथमुदात्तत्वेन उदाह्रियत इति चोद्यार्थः । शमप्रधानत्वादिति । शमो नाम मनसो निरभिलाषत्वम् । कारुण्यं परदुःखदुःखित्वम् । वीतरागादिवदिति । बुद्धादिवदित्यर्थः । शान्तत्वं सदपि जीमूतवाहनादेरुपरितनेन मलयवत्यनुरागेण व्याहतमित्याह अन्यच्चात्रेति । यच्च धीरललितत्वादिगुणयोगेऽपि विप्रादिर्धीरशान्त एव न तु धीरललितादिरिति तदपि स्वपरिभाषामात्रं न वास्तवम् । उपपत्तिशून्या स्वसंज्ञा खलु परिभाषेति । तदेतदाह यच्चेति । वस्तुगत्येति । परिभाषां विहायेत्यर्थः । बुद्धयुधिष्ठिरजीमूतवाहनादीति । बुद्धादिसहपाठेन जीमूतवाहनोऽपि तद्वच्छान्त एवेति द्योतयति । अस्य शान्तत्वम् 513उदात्तत्वाद् विरुद्धम् । तेन जीमूतवाहनः उदात्त एवेति प्रतिपादयितुमारभते अत्रोच्यत इति । ननु उदात्ततया प्रतिपन्नस्य रामादेर्भूम्यादिलाभ एव धीरोदात्तत्वे प्रयोजकः । तत्राह रामादेरपीति । उदात्तत्वपरिपन्थिशमप्रधानत्वं जीमूतवाहनादेः कविनोक्तमिति पूर्वपक्षिणा प्रतिपादितमनुभाष्य परिहरति यच्चोक्तमित्यादिना । न बुद्धादिवदविशिष्टं514 निरभिलाषित्वमेव जीमूतवाहनादौ । किंतु स्वसुखनिरभिलाषित्वमित्युदाहरणेन दर्शयति यदुक्तमिति । न्यायतः प्राप्तमपि शान्तत्वम् उपरितनेन मलयवत्यनुरागेण व्याहतमित्युक्तं परिहरति मलयवत्यनुरागोपवर्णनं त्विति । प्रत्युतेति । मलयवत्यनुरागोपवर्णनस्य शान्तनायकतां प्रति न केवलं विरोध एव किं तु तन्निषेध एवेत्यर्थः । यदुक्तं शान्तो द्विजादिक एव न तु क्षत्रियादिरिति तदपि न पारिभाषिकमेव किं तु वास्तवमिति प्रतिपादयति शान्तत्वं चेति । औचित्यप्राप्तमिति । गुणिसंवादो गुणानामौचित्यं यथा जलस्य शैत्यम्, अग्नेरौष्ण्यमितिवत् । बुद्धादिसहपाठेन निरभिलाषित्वं कारुणिकत्वं च जीमूतवाहनादेरुक्तम् । तत्र निरभिलाषित्वं पूर्वमेव परिहृतम् । कारुणिकत्वमिदानीम् औदात्त्याविरुद्धमिति प्रतिपादयति बुद्धजीमूतवाहनयोस्त्विति । उपसंहरति अत इति ।

  1. T.MS. reads sāmānyadvāropāttānām. All others read as given in the text.

  2. Gr. MS. reads what is given in the text. M.G.T. omits udāttatvāt. The portion from śāntatvam up to rāmādeḥ is missing in T.MS.

  3. Gr. MS. reads avaśiṣṭam, and M.G.T. as anuśiṣṭam.