अथ प्रागल्भ्यम्—

निःसाध्वसत्वं प्रागल्भ्यं

मनःक्षोभपूर्वकोऽङ्गसादः=साध्वसम्, तदभावः प्रागल्भ्यम् । यथा ममैव—

तथा व्रीडाविधेयापि तथा मुग्धापि सुन्दरी ।
कलाप्रयोगचातुर्ये सभास्वाचार्यकं गता ॥

116 निःसाध्वसत्वं नाम साध्वसाभावः । अभावश्च प्रतियोगिनिरूपणाधीननिरूपण इति साध्वसस्वरूपं कथयति मनःक्षोभपूर्वक इति ।