117 अथ स्वाभाविका दश । तत्र—
प्रियानुकरणं लीला मधुराङ्गविचेष्टितैः ॥ ३७ ॥
  प्रियकृतानां 637वाग्वेषचेष्टानामनङ्गशृङ्गारिणीनामङ्गनाभिरनुकरणं = लीला । यथा ममैव—
  
    
यथा वा—तेनोहितं वदति याति तथा यथासौ इत्यादि ।तह दिट्ठं तह भणिअं ताए णिउदं638 तहा तहा सीणं ।
    अवलोहअं सइण्हं सविब्भमं जह सवत्तीहिं ॥
  
अङ्गविचेष्टितस्य माधुर्यमिदमित्याह 639अनङ्गशृङ्गारिणीनामिति ।
तह दिट्ठमिति ।
  
    
तथा दृष्टं तथा भणितं तथा निवृत्तं तथा तथासीनम ।640
    अवलोकितं सतृष्णं सविभ्रमं यथा सपत्नीभिः ॥
  
