118 स्तोकोऽपि वेषो बहुतरकमनीयताकारी=विच्छित्तिः । यथा कुमारसंभवे—

कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाभेदनितान्तगौरे ।
तस्याः कपोले परभागलाभाद् बबन्ध चक्षूंषि यवप्ररोहः ॥642

अथ विभ्रमः—

विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ।

यथा—

अभ्युद्गते शशिनि पेशलकान्तदूतीसंलापसंवलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरितभूषाविन्यासहासितसखीजनमङ्गनाभिः ॥

यथा वा ममैव—

श्रुत्वायातं बहिः कान्तमसमाप्तविभूषया ।
भालेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः ॥

अथ किलकिञ्चितम्—

क्रोधाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ॥ ३९ ॥

यथा ममैव—

रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे ।
कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित- स्मितक्रोधोद्भ्रान्तं पुनरपि विदध्यान्मयि मुखम् ॥

  1. ७।१७