अथ शृङ्गारनेत्रवस्थाः—

स दक्षिणः शठो धृष्टः पूर्वां प्रत्यन्यया हृतः ॥ ६ ॥

नायकप्रकरणात् पूर्वां नायिकां प्रत्यन्ययापूर्वनायिकयापहृतचित्तस्व्यवस्थो वक्ष्यमाणभेदेन सह चतुरवस्थः । तदेवं पूर्वोक्तानां चतुर्णां प्रत्येकं चतुरवस्थत्वेन षोडशधा नायकः ।

तथाविधान् दक्षिणादीनेव दर्शयति अथेति । ननु पूर्वामाद्यां प्रतीत्येतावन्मात्रोक्तौ नायिकां प्रतीति कथं गम्यते । तत्राह नायकप्रकरणादिति । वक्ष्यमाणभेदेन सहेति । अनुकूल इत्यपि हि कश्चिन्नायकभेदो वक्ष्यते । तेन सह शृङ्गारनायकश्चतुरवस्थो भवति—दक्षिणः शठो धृष्टोऽनुकूलश्चेति । तदेवं धीरललितादीनां नायकानां प्रत्येकं दक्षिणशठधृष्टानुकूलभेदेन चातुर्विध्यात् नायकानां षोडशत्वं भवतीति ।