121 वक्त्रं ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मां नोवाच किंचित् स्मृतमपि646 हृदये मानसं तद् दुनोति ॥
अमरु॰ श्लो॰ १३६

अथ नेतुः कार्यान्तरसहायानाह—

मन्त्री स्वं वोभयं वापि सखा तस्यार्थचिन्तने ॥ ४२ ॥

तस्य नेतुरर्थचिन्तायां तन्त्रावापादिलक्षणायां मन्त्री वात्मा वोभयं वा सहायः ।

तन्त्रावापादिलक्षणायामिति । तन्त्रं स्वराष्ट्रचिन्ता647 । आवापः परराष्ट्रचिन्ता ।

तत्र विभागमाह—

मन्त्रिणा ललितः शेषा मन्त्रिस्वायत्तसिद्धयः ।

उक्तलक्षणो ललितो नेता मन्त्र्यायत्तसिद्धिः । शेषाः=धीरोदात्तादयः । अनियमेन मन्त्रिणा स्वेन वोभयेन वाङ्गीकृतसिद्धय इति ।

धर्मसहायास्तु—

ऋत्विक्पुरोहितौ धर्मे तपस्विब्रह्मवादिनः ॥ ४३ ॥

ब्रह्म=वेदः, तं वदन्ति व्याचक्षते वा तच्छीला ब्रह्मवादिनः, आत्मज्ञानिनो वा । शेषाः प्रतीताः ।

दुष्टदमनं=दण्डः, तत्सहायास्तु—

सुहृत्कुमाराटविका दण्डे सामन्तसैनिकाः ।

  1. N.S.P. sthitam api.

  2. tantraṃ svarāṣṭracintāyām āvāpas tv aricintane is >Vaijayantīkośa. See Mallinātha also on Śiśupāvadha II. 28.