उक्तो नायकः, तद्व्यापारस्तूच्यते—

तद्व्यापारात्मिका वृत्तिश्चतुर्धा तत्र कैशिकी ।
गीतनृत्यविलासाद्यैर्मृदुः649 शृङ्गारचेष्टितैः ॥ ४७ ॥

123 प्रवृत्तिरूपो नेतृव्यापारस्वभावः=वृत्तिः । सा च कैशिकीसात्त्वत्यारभटीभारतीभेदाच्चतुर्विधा । तासां गीतनृत्यविलासकामोपभोगाद्युपलक्ष्यमाणो मृदुः शृङ्गारी कामफलावच्छिन्नो व्यापारः कैशिकी ।

कामफलावच्छिन्न इति । कामरूपस्य व्यापारस्य फलावच्छेदेन हि निरूपणम् । तेनाह कामफलावच्छिन्न इति ।

  1. The portion from mṛduḥ śṛṅgāraceṣṭitaiḥ up to kāmaphalāvacchinno vyāpāraḥ is missing in A.T.A.