तत्र—

दक्षिणोऽस्यां सहृदयो

योऽस्यां ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः । यथा ममैव—

प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतिक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः ।
सविश्रम्भः कश्चित् कथयति च किंचित् परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतिम् ॥

84 यथा वा—

उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः ।
उपचारविधिर्मनस्विनीनां ननु पूर्वाभ्यधिकोऽपि भावशून्यः ॥530

  1. मालविकाग्नि॰ ३।३