123 प्रवृत्तिरूपो नेतृव्यापारस्वभावः=वृत्तिः । सा च कैशिकीसात्त्वत्यारभटीभारतीभेदाच्चतुर्विधा । तासां गीतनृत्यविलासकामोपभोगाद्युपलक्ष्यमाणो मृदुः शृङ्गारी कामफलावच्छिन्नो व्यापारः कैशिकी ।

कामफलावच्छिन्न इति । कामरूपस्य व्यापारस्य फलावच्छेदेन हि निरूपणम् । तेनाह कामफलावच्छिन्न इति ।

सा तु—

650नर्मतत्स्फिञ्जतत्स्फोटतद्गर्भैश्चतुरङ्गिका ।

तदित्यनेन सर्वत्र नर्म परामृश्यते ।

तत्र—

वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् ॥ ४८ ॥
हास्येनैव सशृङ्गारभयेन विहितं त्रिधा ।
आत्मोपक्षेपसंभोगमानैः651 शृङ्गार्यपि त्रिधा ॥ ४९ ॥
शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ।
सर्वं सहास्यमित्येवं नर्माष्टादशधोदितम् ॥ ५० ॥

अग्राम्य इष्टजनार्जनरूपः परिहासः=मर्म । तच्च शुद्धहास्येन सशृङ्गारहास्येन सभयहास्येन च रचितं त्रिविधम् । शृङ्गारवदपि स्वानुरागनिवेदनसंभोगेच्छाप्रकाशन-सापराधप्रियप्रतिभेदनैस्त्रिविधमेव । भयनर्मापि शुद्धरसान्तराङ्गभावाद् द्विविधम् । एवं षड्विधस्य प्रत्येकं वाग्वेषचेष्टाव्यतिकरेणाष्टादशविधत्वम्

शुद्धहास्यं भयहास्यं शृङ्गारहास्यं चेति त्रिविधं हास्यम् । शृङ्गारहास्यमपि आत्मोपक्षेपादिभिः त्रिविधम् । भयहास्यं द्विविधम् । अत

  1. ‘नर्मतत्स्फञ्ज’ इति पाठः.
  2. A.T.A. saṅgecchā- in place of saṃbhoga-.