124 एकरूपेण शुद्धहास्येन, त्रिविधेन शृङ्गारहास्येन, द्विविधेन भयहास्येन, षड्विधस्य हास्यस्य वाग्वेषचेष्टादिभिः प्रत्येकं त्रैविध्यम् । अतो नर्म अष्टादशविधमिति । तथा व्याचष्टे अग्राम्येत्यादिना । प्रतिभेदनं=तर्जनम् ।

तत्र वचोहास्यनर्म यथा—

पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥652

वेषनर्म यथा नागानन्दे विदूषकशेखरकव्यतिकरे । क्रियानर्म यथा मालविकाग्निमित्रे उत्स्वप्नायमानस्य विदूषकस्योपरि निपुणिका सर्पभ्रमकारणं दण्डकाष्ठं पातयति । एवं वक्ष्यमाणेष्वपि वाग्वेषचेष्टापरत्वमुदाहार्यम् ।

शृङ्गारवदात्मोपक्षेपनर्म यथा—

मध्याह्नं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुह्य सार्थविमुखः653शीतः प्रपामण्डपः ।
तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वच्चितं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥

विमुह्येति । क्रियापदमिदम् ।

संभोगनर्म यथा—

सालोएं चिअ सूरे घरिणी घरसामिअस्स घेत्तूण ।
णेच्छंतस्स वि पाए धुवइ654 हसंती हसंतस्स ॥655

सालोएं चिअ656 ।

सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा ।
नेच्छतोऽपि पादौ धावति657 हसन्ती हसतः ॥

  1. कुमार॰ ७।१९
  2. N.S.P. vimuñca pāntha vivaśaḥ in place of vimuhya sārtha- vimukhaḥ.

  3. N.S.P. dhuai and chāyā as dhunoti.

  4. गाथा॰ २।३०
  5. See Note 195 to Daśarūpāvaloka.

  6. N.S.P. has the chāyā here as anicchato ’pi pādau dhunoti.