126 मालविका

662भट्टा, देवीए भयेण अत्तणो वि पिअं काउं ण पारेमि

इत्यादि ।

अथ नर्मस्फोटः—

नर्मस्फोटस्तु भावानां सूचितोऽल्परसो लवैः ॥ ५१ ॥

यथा मालतीमाधवे—

मकरन्दः
गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत् स्यात् किमन्यदतोऽथ वा ।
भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥663
इत्यत्र गमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाश्यते ।

अथ नर्मगर्भः—

छन्ननेत्रप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अङ्गैः सहास्यनिर्हास्यैरेभिरेषात्र कैशिकी ॥ ५२ ॥

यथामरुशतके—

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥664

यथा प्रियदर्शिकायां गर्भाङ्के वत्सराजवेषमनोरमास्थाने665 साक्षाद् वत्सराजप्रवेशः ।

  1. ‘भर्तः, देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि ।’ इति च्छाया.
  2. १।२०
  3. श्लो॰ १९
  4. MSS. read Susaṃgatā for Manoramā. As was pointed out by G.C.O. Haas (1962, p. 70) this must be an error. A scribe being familiar with Ratnā:alī and Priyadarśikā must have confused the names of the characters, and so must have written one for the other.