127 अथ सात्त्वती—

विशोका सात्त्वती सत्त्वशौर्यत्यागदयार्जवैः ।
संलापोत्थापकावस्यां संघात्यः परिवर्तकः ॥ ५३ ॥

शोकहीनः सत्त्वशौर्यत्यागदयाहर्षादिभावोत्तरो नायकव्यापारः=सात्त्वती । तदङ्गानि च संलापोत्थापकसंघात्यपरिवर्तकाख्यानि ।

तत्र—

संलापको गभीरोक्तिर्नानाभावरसा मिथः ।

यथा वीरचरिते—

रामः

अयं स यः किल सपरिवारकार्तिकेयविजयावर्जितेन भगवता नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः ।666

परशुरामः

आम्, दाशरथे, स एवायमाचार्यपादानां प्रियः परशुः,—

शस्त्रप्रयोगखुरलीकलहे गणानां सैन्यैर्वृतो विजित एव मया कुमारः ।
एतावतापि परिरभ्य कृतप्रसादः प्रादादिमं प्रियगुणो भगवान् गुरुर्मे ॥667
इत्यादिनानाप्रकारभावरसेन रामपरशुरामयोरन्योन्यगभीरवचसा संलाप इति ।

शस्त्रप्रयोगखुरलीकलहे=शस्त्राभ्यासदशाभाविनि कलहे ।

अथोत्थापकः—

उत्थापकस्तु यत्रादौ युद्धायोत्थापयेत् परम् ॥ ५४ ॥

  1. पृ॰ ६८-६९
  2. वी॰ च॰ २।३४