128 यथा वीरचरिते—

आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं नु कृतोऽद्य संप्रति मम त्वद्दर्शने चक्षुषः ।
त्वत्सांगत्यसुखस्य नास्मि विषयः किं वा बहुव्याहृतै- रस्मिन् विश्रुतजामदग्न्यविजये बाहौ धनुर्जृभ्भताम् ॥668

अथ संघात्यः—

मन्त्रार्थदैवशक्त्यादेः संघात्यः संघभेदनम् ।

मन्त्रशक्त्या, यथा मुद्राराक्षसे राक्षससहायादीनां चाणक्येन स्वबुद्ध्या भेदनम् । अर्थशक्त्या तत्रैव, यथा पर्वतकाभरणस्य राक्षसहस्तगमनेन मलयकेतुसहोत्थायिभेदनम् । दैवशक्त्या तु, यथा रामायणे रामस्य दैवशक्त्या रावणाद्विभीषणस्य भेद इत्यादि ।

अथ परिवर्तकः—

प्रारब्धोत्थानकार्यान्यकरणात् परिवर्तकः ॥ ५५ ॥

प्रस्तुतस्योद्योगकार्यस्य परित्यागेन कार्यान्तरकरणं=परिवर्तकः ।

यथा वीरचरिते—

हेरम्बदन्तमुसलोल्लिखितैकभित्ति वक्षो विशाखविशिखव्रणलाञ्छनं मे ।
रोमाञ्चकञ्चुकितमद्भुतवीरलाभाद् यत् सत्यमद्य परिरब्धुमिवेच्छति त्वाम् ॥669
रामः

भगवन्, परिरम्भणमिति प्रस्तुतप्रतीपमेतत् ।

इत्यादि ।

  1. ५।४९
  2. २।३८