129 सात्त्वतीमुपसंहरन्नारभटीलक्षणमाह—

एभिरङ्गैश्चतुर्धेयं सात्त्वत्यारभटी पुनः ।
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ॥ ५६ ॥
संक्षिप्तिका स्यात् संफेटो वस्तूत्थानावपातने ।

माया मन्त्रबलेनाविद्यमानवस्तुप्रकाशनम् । तन्त्रबलादिन्द्रजालम् ।

मायेन्द्रजालयोर्वैषम्यमाह मायेति ।

तत्र—

संक्षिप्तवस्तुरचना संक्षिप्तिः शिल्पयोगतः ॥ ५७ ॥
पूर्वनेतृनिवृत्त्यान्ये नेत्रन्तरपरिग्रहम् ।

मृद्वंशदलचर्मादिद्रव्ययोगेन वस्तूत्थापनं संक्षिप्तिः । यथोदयनचरिते किलिञ्जहस्तिप्रयोगः । पूर्वनायकावस्थानिवृत्त्यावस्थान्तरपरिग्रहमन्ये संक्षिप्तिकां मन्यन्ते । यथा वालिनिवृत्त्या सुग्रीवः । यथा च परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनं पुण्या ब्राह्मणजातिः—670 इत्यादिना ।

पूर्वनायकेति । धर्मिभेदोऽङ्गीकृतः पूर्वत्र । अपरत्र 671एकस्मिन्नपि धर्मिणि धर्मभेदोऽङ्गीकृत इति व्याख्याविकल्पः ।

अथ संफेटः—

संफेटस्तु समाघातः क्रुद्धसंरब्धयोर्द्वयोः ॥ ५८ ॥

यथा माधवाघोरघण्टयोर्मालतीमाधवे । इन्द्रजिल्लक्ष्मणयोश्च रामायणप्रतिबद्धवस्तुषु ।

  1. वी॰ च॰ ४।२२
  2. The portion from ekasmin up to kirātaśabdārthaḥ is missing in Tri.MS. and M.G.T.