130 क्रुद्धसंरब्धयोर्द्वयोरिति । क्रुद्धयोः तत एव संरब्धयोर्द्वयोरित्यर्थः ।

अथ वस्तूत्थापनम्—

मायाद्युत्थापितं वस्तु वस्तूत्थापनमिष्यते ।

यथोदात्तराघवे—

जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्व्यापिभि- र्भास्वन्तः सकला रवेरपि 672कराः कस्मादकस्मादमी ।
एतैश्चोग्रकबन्धरन्ध्ररुधिरैराध्मायमानोदरा मुञ्चन्त्याननकन्दरानलमुचस्तीव्रारवाः फेरवाः ॥
इत्यादि ।

अथावपातः—

अवपातस्तु निष्क्रामः प्रवेशत्रासविद्रवैः ॥ ५९ ॥

यथा रत्नावल्याम्—

कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः ।
दत्तातङ्को गजानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरातः ॥673
नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यन्ति शनकैरात्मेक्षणाशङ्किनः ॥674

  1. N.S.P. rucaḥ instead of karāḥ.

  2. २।२
  3. रत्ना॰ २।३