84 यथा वा—

उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः ।
उपचारविधिर्मनस्विनीनां ननु पूर्वाभ्यधिकोऽपि भावशून्यः ॥530

अथ शठः—

गूढविप्रियकृच्छठः ।

दक्षिणस्यापि नायिकान्तरापहृतचित्ततया विप्रियकारित्वाविशेषेऽपि सहृदयत्वेन शठाद्विशेषः । यथा—

शठोऽन्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत् क्वाचक्षे घृतमधुमयत्वद्बहुवचो- विषेणाघूर्णंन्ती किमपि न सखी मे गणयति ॥531

ननु शठाद् दक्षिणस्यापूर्वनायिकापहृतचित्तत्वेन पूर्वां प्रति विप्रियकारित्वाविशेषे सति न किंचिद् भेदमुपलभामहे । तत्राह दक्षिणस्यापीति । घृतमधुमयेन त्वद्वचोविषेण532 आघूर्णन्तीत्यर्थः ।

अथ धृष्टः—

व्यक्ताङ्गवैकृतो धृष्टो

यथामरुशतके—

लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।

  1. मालविकाग्नि॰ ३।३
  2. अमरु॰ श्लो॰ १०९
  3. M.G.T. and Tri.MS. read viśeṣeṇa. See also Arjunavarmadeva’s comment on this, with which Bh.Nṛ’s seems to agree in essence.