132 रसेष्वेता वृत्तोर्नियच्छति शृङ्गारे कैशिकीति ।

देशभेदभिन्नवेषादेस्तु नायकादिव्यापारः प्रवृत्तिरित्याह—

देशभाषाक्रियावेषलक्षणाः स्युः प्रवृत्तयः ।
लोकादेवावगम्यैता684 यथौचित्यं प्रयोजयेत् ॥ ६३ ॥

देशभाषात्मिकायाः प्रवृत्तेर्लक्षणाकरणे हेतुमाह लोकादेवेति । शेषं सुगमम् ।

तत्र पाठ्यं प्रति विशेषः—

पाठ्यं तु संस्कृतं नॄणामनीचानां कृतात्मनाम् ।
लिङ्गिनीनां महादेव्या मन्त्रिजावेश्ययोः क्वचित् ॥ ६४ ॥

क्वचिदिति देवीप्रभृतीनां संबन्धः ।

स्त्रीणां तु प्राकृतं प्रायः 685शौरसेन्यधमेषु च ।

प्रकृतेरागतं प्राकृतम् । प्रकृतिः संस्कृतम् । तद्भवं तत्समं देशीत्यनेकप्रकारं प्राकृतम् । 686शौरसेनी मागधी च स्वशास्त्रनियते ।

पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ॥ ६५ ॥
यद्देशं नीचपात्रं यत् तद्देशं तस्य भाषितम् ।
कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः ॥ ६६ ॥

स्पष्टार्थमेतत् ।

  1. ‘अधिगम्य’, ‘उपगम्य’, ‘अनुगम्य’ इति पाठाः
  2. ‘शूरसेनी’, ‘सौरसेनी’ इति पाठौ.
  3. A.T.A. reads saṃskṛtaṃ śāstraniyatam.