85
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥533

भेदान्तरमाह—

ऽनुकूलस्त्वेकनायिकः ॥ ७ ॥

यथा—

अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्ययात् परिणते यत् स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते ॥534

किमवस्थः पुनरेषां वत्सराजादिर्नाटिकानायकः स्यादित्युच्यते । पूर्वमनुपजातनायिकान्तरानुरागोऽनुकूलः । परतस्तु दक्षिणः । ननु च गूढविप्रियकारित्वाद् व्यक्ततरविप्रियत्वाच्च शाठ्यधार्ष्ट्ये अपि कस्मान्न भवतः । न, तथाविधविप्रियत्वेऽपि वत्सराजादेरा प्रबन्धसमाप्तेर्ज्येष्ठां नायिकां प्रति सहृदयत्वाद् दक्षिणतैव । न चोभयोर्ज्येष्ठाकनिष्ठयोर्नायकस्य स्नेहेन न भवितव्यमिति वाच्यम्, अविरोधात् । महाकविप्रबन्धेषु च—

स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु- र्द्युते रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥535

  1. श्लो॰ ६०
  2. उ॰ च॰ १।३८
  3. अयं श्लोको भोजप्रबन्धेऽपि दृश्यते । श्लो॰ ३०२