86 इत्यादावपक्षपातेन सर्वनायिकासु प्रतिपत्त्युपनिबन्धनात् । तथा च भरतः—

मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति ।
अवमानितश्च नार्या विरज्यते स तु भवेज्ज्येष्ठः ॥536
इति । अत्र न रागं याति न मदनस्य वशमेति इत्यनेनासाधारण एकस्यां स्नेहो निषिद्धो दक्षिणस्येति । अतो वत्सराजादेराप्रबन्धसमाप्ति स्थितं दाक्षिण्यमिति । षोडशानामपि प्रत्येकं ज्येष्ठमध्यमाधमत्वेनाष्टाचत्वारिंशन्नायकभेदा भवन्ति ।

सुमानुषस्येति । शोभनस्य मानुषस्य । मानुषशब्दादण्प्रत्ययेऽपे मानुषमित्येव रूपं भवतीति । गूढविप्रियकारित्वाविशेषेऽपि दक्षिणत्वेनैव व्यवहारे किं कारणमित्यभिप्रेत्य पृच्छति किमवस्थः पुनरिति । नाटिकानायक इति विशिंषन् उभयनायिकावत्त्वं तस्यावश्यंभावीति ब्रूते । प्रष्टा स्वाभिप्रायमभिव्यनक्ति ननु चेति537 । नन्वेकस्य538 ज्येष्ठायां दाक्षिण्यमेव, कनिष्ठायां तु स्नेह एव । तत्राह न चेति । एकस्याविरुद्धमनेकनायिकाङ्गीकारमेव तर्शयति महाकविप्रबन्धेषु चेति । नन्वनेन ग्रन्थेन कनिष्ठायां कथमसाधारणस्नेहो निषिद्धः । तत्राह अनुरागं न याति न मदनस्य वशमेतीत्यनेनेति ।

सहायानाह—

पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः ।
तस्यैवानुचरो भक्तः किंचिदूनश्च तद्गुणैः ॥ ८ ॥

प्रागुक्तप्रासङ्गिकेतिवृत्तविशेषः पताका । तन्नायकः पीठमर्दः प्रधानेतिवृत्तनायकस्य सहायः । यथा मालतीमाधवे मकरन्दः, रामायणे सुग्रीवः ।

  1. ना॰ शा॰ [GOS] २३।५६
  2. nanu ceti is missing in T.MS.

  3. T.MS. and Gr.MS. read na tv ekasya, and others give it as nanv ekasya.