87 सहायान्तरमाह—

एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः ।

गीतादिविद्यानां नायकोपयोगिनीनामेकस्या विद्याया वेदिता विटः । हास्यकारी विदूषकः । अस्य च539 विकृताकारवेषादित्वं हास्यकारित्वेनैव लभ्यते । यथा शेखरको नागानन्दे विटः । विदूषकः प्रसिद्ध एव ।

नन्वेकविद्यामात्रेण प्रयोगोपयोगो नास्ति । तत्राह गीतादिविद्यानामित । ननु विदूषकस्य वक्ष्यमाणं विकृताकारवेषादित्वं नोपात्तम् । तत्राह अस्य चेति ।

अथ प्रतिनायकः—

लुब्धो धीरोद्धतः स्तब्धः पापकृद् व्यसनी रिपुः ॥ ९ ॥

तस्य नायकस्येत्थंभूतः प्रतिपक्षनायको भवति । यथा रामयुधिष्ठिरयोः रावणदुर्योधनौ ।

सूत्रस्यैवं संगतिरित्याह तस्य नायकस्येति ।

अथ सात्त्विका नायकगुणाः—

शोभा विलासो माधुर्यं गाम्भीर्यं 540स्थैर्यतेजसी ।
ललितौदार्यमित्यष्टौ 541सत्त्वजाः पौरुषा गुणाः ॥ १०॥

तत्र—

नीचे घृणाधिके स्पर्धा शोभायां शौर्यदक्षते ।

  1. N.S.P. omits ca.

  2. ‘धर्य’ इति पाठः.
  3. ‘सात्त्विकाः’ इति पाठः.